ऋणविमोचन नृसिंह स्तोत्रम्

|| ऋणविमोचन नृसिंह स्तोत्रम् ||
देवता कार्यसिध्यर्थं सभास्तम्भसमुद्भवम्
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये
लक्ष्म्यालिङ्गितवामाङ्गं भक्तानामवरदायकम्
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये
आन्त्रमालाधरं शङ्खचक्राब्जायुधधारिणम्
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये
स्मरणात्सर्वपापघ्नं कद्रुजं विषनाशनम्
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये
सिंहनादेन महता दिग्दन्तिभयनाशनम्
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये
प्रह्लादवरदं श्रीशं दैत्येश्वरविदारिणम्
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये
क्रूरग्रहपीड़िताणां भक्तानाम् अभयप्रदम्
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये
वेद्वेदान्त यज्ञेशं ब्रह्मरुद्रादिवंदितम्
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये
य इदं पठते नित्यं ऋणमोचनसंज्ञितम्
अनृणीजायते सद्यो धनं शीघ्रमवाप्नुयात्
||इति श्रीनृसिंहपुराणे ऋणमोचनस्तोत्रं सम्पूर्णम् ||
जय श्री राम ॐ रां रामाय नम:  श्रीराम ज्योतिष सदन, पंडित आशु बहुगुणा, संपर्क सूत्र- 9760924411