श्रीआदिवाराही सहस्रनामस्तोत्रम्

श्रीआदिवाराही सहस्रनामस्तोत्रम् और मंत्र साधना

(वाराही देवी के 1000 नाम)

2.. श्रीमहा वाराही  अष्टोत्तर शतनामावली

( वाराही देवी के 108 नाम)

श्रीआदिवाराही सहस्रनामस्तोत्रम्

1…ॐ व्हीं र्थीं वाराही देव्यै नमः

2…ॐ ह्रीं  श्रीं नमो भगवती वाराही वैष्णवी सर्व तंत्रानुतंत्रम् छिन्द छिन्द भिंद भिंद सुआरोग्यम सुऐश्वर्यम सुबुद्धिम् देहि देहि परमेश्वरी चक्रधारिणीये श्रीं ह्रीं स्वाहा ।

3...ॐ वराहमुख्यै विद्महे । दण्डनाथायै धीमही ।

तन्नो अर्घ्रि प्रचोदयात्  ॥

4.....श्री वाराही मूल मंत्र------

ॐ ऐं ग्लौं ऐं नमो भगवति वार्ताळि वार्ताळि

वाराहि वाराहि  वराहमुखि वराहमुखि ऐं ग्लौं ऐं

अन्धे अन्धिनि  नमो, रुन्धे रुन्धिनि नमो,

जम्भे जम्भिनि नमो, मोहे मोहिनि नमो,

स्तंभे स्तंभिनि नमः ऐं ग्लौं ऐं 

सर्वदुष्टप्रदुष्टानां सर्वेषां

सर्ववाक्पदचित्त चक्षुर्मुखगति जिह्वाम्

स्तंभनं कुरु कुरु शीघ्रं वश्यं कुरु कुरु ऐं ग्लौं ठः ठः ठः ठः

हुं फट् स्वाहा । 

उड्डामरतन्त्र्न्तर्गतम्

॥ श्रीवाराहीध्यानम् ॥

नमोऽस्तु देवि वाराहि जयैङ्कारस्वरूपिणि ।

जय वाराहि विश्वेशि मुख्यवाराहि ते नमः ॥ १॥

वाराहमुखि वन्दे त्वां अन्धे अन्धिनि ते नमः ।

सर्वदुर्ष्टप्रदुष्टानां वाक्स्तम्भनकरे नमः ॥ २॥

नमः स्तम्भिनि स्तम्भे त्वां जृम्भे जृम्भिणि ते नमः ।

रुन्धे रुन्धिनि वन्दे त्वां नमो देवेशि मोहिनि ॥ ३॥

स्वभक्तानां हि सर्वेषां सर्वकामप्रदे नमः ।

बाह्वोः स्तम्भकरीं वन्दे जिह्वास्तम्भनकारिणीम् ॥ ४॥

स्तम्भनं कुरु शत्रूणां कुरु मे शत्रुनाशनम् ।

शीघ्रं वश्यं च कुरु मे याऽग्नौ वागात्मिका स्थिता ॥ ५॥

ठचतुष्टयरूपे त्वां शरणं सर्वदा भजे ।

हुमात्मिके फड्रूपेण जय आद्यानने शिवे ॥ ६॥

देहि मे सकलान् कामान् वाराहि जगदीश्वरि ।

नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ ७॥

 

॥ अथ श्रीआदिवाराहीसहस्रनामस्तोत्रम् ॥

अथ ध्यानम् -

वन्दे वाराहवक्त्रां वरमणिमकुटां विद्रुमश्रोत्रभूषां

हाराग्रैवेयतुङ्गस्तनभरनमितां पीतकौशेयवस्त्राम् ।

देवीं दक्षोर्ध्वहस्ते मुसलमथपरं लाङ्गलं वा कपालं

वामाभ्यां धारयन्तीं कुवलयकलिकां श्यामलां सुप्रसन्नाम्  ॥

ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि

वराहमुखि अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे जम्भिनि नमः

मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः सर्वदुष्टप्रदुष्टानां सर्वेषां

सर्ववाक्चित्तचक्षुर्मुखगतिजिह्वास्तम्भनं कुरु कुरु शीघ्रं वश्यं

कुरु कुरु ।  ऐं ग्लौं  ठः ठः ठः ठः हुं फट् स्वाहा ।

महावाराह्यं वा श्रीपादुकां पूजयामि नमः  ॥

देव्युवाच -

श्रीकण्ठ करुणासिन्धो दीनबन्धो जगत्पते ।

भूतिभूषितसर्वाङ्ग परात्परतर प्रभो  ॥ १॥

कृताञ्जलिपुटा भूत्वा पृच्छाम्येकं दयानिधे ।

आद्या या चित्स्वरूपा या निर्विकारा निरञ्जना  ॥ २॥

बोधातीता ज्ञानगम्या कूटस्थाऽऽनन्दविग्रहा ।

अग्राह्याऽतीन्द्रिया शुद्धा निरीहा स्वावभासिका  ॥ ३॥

गुणातीता निष्प्रपञ्चा ह्यवाङ्मनसगोचरा ।

प्रकृतिर्जगदुत्पत्तिस्थितिसंहारकारिणी  ॥ ४॥

रक्षार्थे जगतां देवकार्यार्थं वा सुरद्विषाम् ।

नाशाय धत्ते सा देहं तत्तत्कार्यैकसाधनम्  ॥ ५॥

तत्र भूधरणार्थाय यज्ञविस्तारहेतवे ।

विद्युत्केशहिरण्याक्षबलाकादिवधाय च  ॥ ६॥

आविर्बभूव या शक्तिर्घोरा भूदाररूपिणी ।

वाराही विकटाकारा दानवासुरनाशिनी  ॥ ७॥

सद्यःसिद्धिकरी देवी धोरा घोरतरा शिवा ।

तस्याः सहस्रनामाख्यं स्तोत्रं मे समुदीरय ॥ ८॥

कृपालेशोऽस्ति मयि चेद्भाग्यं मे यदि वा भवेत् ।

अनुग्राह्या यद्यहं स्यां तदा वद दयानिधे  ॥ ९॥

ईश्वर उवाच -

साधु साधु वरारोहे धन्या बहुमतासि मे ।

शुश्रूषादिसमुत्पन्ना भक्तिश्रद्धासमन्विता तव  ॥ १०॥

सहस्रनाम वाराह्याः सर्वसिद्धिविधायि च ।

तव चेन्न प्रवक्ष्यामि प्रिये कस्य वदाम्यहम्  ॥ ११॥

किन्तु गोप्यं प्रयत्नेन संरक्ष्यं प्राणतोऽपि च ।

विशेषतः कलियुगे न देयं यस्य कस्यचित्  ॥

सर्वेऽन्यथा सिद्धिभाजो भविष्यन्ति वरानने  ॥ १२॥

 

ॐ अस्य श्रीवाराहीसहस्रनामस्तोत्रस्य महादेव ऋषिः । अनुष्टुप्छन्दः ।

वाराही देवता । ऐं बीजम् । क्रों शक्तिः । हुं कीलकम् ।

मम सर्वार्थसिद्ध्यर्थे जपे विनियोगः ।

ॐ वाराही वामनी वामा बगला वासवी वसुः ।

वैदेही विरसूर्बाला वरदा विष्णुवल्लभा  ॥ १३॥

वन्दिता वसुदा वश्या व्यात्तास्या वञ्चिनी बला ।

वसुन्धरा वीतिहोत्रा वीतरागा विहायसी  ॥ १४॥

सर्वा खनिप्रिया काम्या कमला काञ्चनी रमा ।

धूम्रा कपालिनी वामा कुरुकुल्ला कलावती ॥ १५॥

याम्याऽग्नेयी धरा धन्या धर्मिणी ध्यानिनी ध्रुवा ।

धृतिर्लक्ष्मीर्जया तुष्टिः शक्तिर्मेधा तपस्विनी ॥ १६॥

वेधा जया कृतिः कान्तिः स्वाहा शान्तिर्दमा रतिः ।

लज्जा मतिः स्मृतिर्निद्रा तन्द्रा गौरी शिवा स्वधा ॥ १७॥

चण्डी दुर्गाऽभया भीमा भाषा भामा भयानका ।

भूदारा भयापहा भीरुर्भैरवी भङ्गरा भटी ॥ १८॥

घुर्घुरा घोषणा घोरा घोषिणी घोणसंयुता ।

घनाधना घर्घरा च घोणयुक्ताऽघनाशिनी ॥ १९॥

पूर्वाग्नेयी पातु याम्या वायव्युत्तरवारुणी ।

ऐशान्यूर्ध्वाधःस्थिता च पृष्टा दक्षाग्रवामगा ॥ २०॥

हृन्नाभिब्रह्मरन्ध्रार्कस्वर्गपातालभूमिगा ।

ऐं श्रीः ह्रीः क्लीं तीर्थगतिः प्रीतिर्धीर्गीः कलाऽव्यया ॥ २१॥

ऋग्यजुः सामरूपा च परा यात्रिण्युदुम्बरा ।

गदासिशक्तिचापेषुशूलचक्रक्रष्टिधारिणी ॥ २२॥

जरती युवती बाला चतुरङ्गबलोत्कटा ।

सत्याक्षरा चाधिभेत्री धात्री पात्री परा पटुः  ॥ २३॥

क्षेत्रज्ञा कम्पिनी ज्येष्ठा दूरधर्शा धुरन्धरा ।

मालिनी मानिनी माता माननीया मनस्विनी ॥ २४॥

महोत्कटा मन्युकरी मनुरूपा मनोजवा ।

मेदस्विनी मद्यरता मधुपा मङ्गलाऽमरा  ॥ २५॥

माया माताऽऽमयहरी मृडानी महिला मृतिः ।

महादेवी मोहहरी मञ्जुर्मृत्युञ्जयाऽमला  ॥ २६॥

मांसला मानवा मूला महारात्रिमहालसा ।

मृगाङ्का मीनकारी  स्यान्महिषघ्नी मदन्तिका  ॥ २७॥

मूर्च्छामोहमृषामोघामदमृत्युमलापहा ।

सिंहर्क्षमहिषव्याघ्रमृगक्रोडानना धुनी ॥ २८॥

धरिणी धारिणी धेनुर्धरित्री धावनी धवा ।

धर्मध्वना ध्यानपरा धनधान्यधराप्रदा  ॥ २९॥

पापदोषरिपुव्याधिनाशिनी सिद्धिदायिनी ।

कलाकाष्ठात्रपापक्षाऽहस्त्रुटिश्वासरूपिणी  ॥ ३०॥

समृद्धा सुभुजा रौद्री राधा राका रमाऽरणिः ।

रामा रतिः प्रिया रुष्टा रक्षिणी रविमध्यगा  ॥ ३१॥

रजनी रमणी रेवा रङ्किनी रञ्जिनी रमा ।

रोषा रोषवती रूक्षा करिराज्यप्रदा रता  ॥ ३२॥

रूक्षा रूपवती रास्या रुद्राणी रणपण्डिता ।

गङ्गा च यमुना चैव सरस्वतिस्वसूर्मधुः  ॥ ३३॥

गण्डकी तुङ्गभद्रा च कावेरी कौशिकी पटुः ।

खट्वोरगवती चारा सहस्राक्षा प्रतर्दना  ॥ ३४॥

सर्वज्ञा शाङ्करी शास्त्री जटाधारिण्ययोरदा ।

यावनी सौरभी कुब्जा वक्रतुण्डा वधोद्यता  ॥ ३५॥

चन्द्रापीडा वेदवेद्या शङ्खिनी नील्लओहिता ।

ध्यानातीताऽपरिच्छेद्या मृत्युरूपा त्रिवर्गदा  ॥ ३६॥

अरूपा बहुरूपा च नानारूपा नतानना ।

वृषाकपिर्वृषारूढा वृषेशी वृषवाहना  ॥ ३७॥

वृषप्रिया वृषावर्ता वृषपर्वा वृषाकृतिः ।

कोदण्डिनी नागचूडा चक्षुष्या परमार्थिका  ॥ ३८॥

दुर्वासा दुर्ग्रहा देवी सुरावासा दुरारिहा ।

दुर्गा राधा दुर्गहन्त्री दुराराध्या दवीयसी  ॥ ३९॥

दुरावासा दुःप्रहस्ता दुःप्रकम्पा दुरुहिणी ।

सुवेणी श्रमणी श्यामा मृगव्याधाऽर्कतापिनी  ॥ ४०॥

दुर्गा तार्क्षी पाशुपती कौणपी कुणपाशना ।

कपर्दिनी कामकामा कमनीया कलोज्वला  ॥ ४१॥

कासावहृत्कारकानी कम्बुकण्ठी कृतागमा ।

कर्कशा कारणा कान्ता कल्पाऽकल्पा कटङ्कटा  ॥ ४२॥

श्मशाननिलया भिन्नी गजारुढा गजापहा ।

तत्प्रिया तत्परा राया स्वर्भानुः कालवञ्चिनी  ॥ ४३॥

शाखा विशाखा गोशाखा सुशाखा शेषशाखिनी ।

व्यङ्गा सुभाङ्गा वामाङ्गा नीलाङ्गाऽनङ्गरूपिणी  ॥ ४४॥

साङ्गोपाङ्गा  च शारङ्गा शुभाङ्गा रङ्गरूपिणी ।

भद्रा सुभद्रा भद्राक्षी सिंहिका विनताऽदितिः  ॥ ४५॥

हृद्या वद्या सुपद्या च गद्यपद्यप्रिया प्रसूः ।

चर्चिका भोगवत्यम्बा सारसी शबरी नटी  ॥ ४६॥

योगिनी पुष्कलाऽनन्ता परा साङ्ख्या शची सती ।

निम्नगा निम्ननाभिश्च सहिष्णुर्जागृती लिपिः  ॥ ४७॥

दमयन्ती दमी दण्डोद्दण्डिनी दारदायिका ।

दीपिनी धाविनी धात्री दक्षकन्या दरिद्रती  ॥ ४८॥

दाहिनी द्रविणी दर्वी दण्डिनी दण्डनायिका ।

दानप्रिया दोषहन्त्री दुःखदारिद्र्यनाशिनी ॥ ४९॥

दोषदा दोषकृद्दोग्ध्री दोहदा देविकाऽदना ।

दर्वीकरी दुर्वलिता दुर्युगाऽद्वयवादिनी  ॥ ५०॥

चराचराऽनन्तवृष्टिरुन्मत्ता कमलालसा ।

तारिणी तारकान्तारा परात्मा कुब्जलोचना  ॥ ५१॥

इन्दुर्हिरण्यकवचा व्यवस्था व्यवसायिका ।

ईशनन्दा नदी नागी यक्षिणी सर्पिणी वरी  ॥ ५२॥

सुधा सुरा विश्वसहा सुवर्णाङ्गदधारिणी ।

जननी प्रीतिपाकेरुः साम्राज्ञी संविदुत्तमा  ॥ ५३॥

अमेयाऽरिष्टदमनी पिङ्गला लिङ्गधारिणी ।

चामुण्डा प्लाविनी हाला बृहज्ज्योतिरुरुक्रमा  ॥ ५४॥

सुप्रतीका च सुग्रीवा हव्यवाहा प्रलापिनी ।

नभस्या माधवी ज्येष्ठा शिशिरा ज्वालिनी रुचिः  ॥ ५५॥

शुक्ला शुक्रा शुचा शोका शुकी भेकी पिकी भकी ।

पृषदश्वा नभोयोनी सुप्रतीका विभावरी  ॥ ५६॥

गर्विता गुर्विणी गण्या गुरुर्गुरुतरी गया ।

गन्धर्वी गणिका गुन्द्रा गारुडी गोपिकाऽग्रगा  ॥ ५७॥

गणेशी गामिनी गन्त्री गोपतिर्गन्धिनी गवी ।

गर्जिता  गाननी गोना गोरक्षा गोविदां गतिः  ॥ ५८॥

ग्राथिकी ग्रथिकृद्गोष्ठी गर्भरूपा गुणैषिणी ।

पारस्करी पाञ्चनदा बहुरूपा विरूपिका  ॥ ५९॥

ऊहा व्यूहा दुरूहा च सम्मोहा मोहहारिणी ।

यज्ञविग्रहिणी यज्ञा यायजूका यशस्विनी  ॥ ६०॥

अग्निष्ठोमोऽत्यग्निष्टोमो वाजपेयश्च षोडशी ।

पुण्डरीकोऽश्वमेधश्च राजसूयश्च नाभसः  ॥ ६१॥

स्विष्टकृद्बहुसौवर्णो गोसवश्च महाव्रतः ।

विश्वजिद्ब्रह्मयज्ञश्च प्राजापत्यः शिलायवः ॥ ६२॥

अश्वक्रान्तो रथक्रान्तो विष्णुक्रान्तो विभावसुः ।

सूर्यक्रान्तो गजक्रान्तो बलिभिन्नागयज्ञकः ॥ ६३॥

सावित्री चार्धसावित्री सर्वतोभद्रवारुणः ।

आदित्यामयगोदोहगवामयमृगामयाः ॥ ६४॥

सर्पमयः कालपिञ्जः कौण्डिन्योपनकाहलः ।

अग्निविद्द्वादशाहः स्वोपांशुः सोमदोहनः  ॥ ६५॥

अश्वप्रतिग्रहो बर्हिरथोऽभ्युदय ऋद्धिराट् ।

सर्वस्वदक्षिणो दीक्षा सोमाख्या समिदाह्वयः ॥ ६६॥

कठायनश्च गोदोहः स्वाहाकारस्तनूनपात् ।

दण्डापुरुषमेधश्च श्येनो वज्र इषुर्यमः ॥ ६७॥

अङ्गिरा कङ्गभेरुण्डा चान्द्रायणपरायणा ।

ज्योतिष्ठोमः कुतो दर्शो नन्द्याख्यः पौर्णमासिकः ॥ ६८॥

गजप्रतिग्रहो रात्रिः सौरभः शाङ्कलायनः ।

सौभाग्यकृच्च कारीषो वैतलायनरामठी ॥ ६९॥

शोचिष्कारी नाचिकेतः शान्तिकृत्पुष्टिकृत्तथा ।

वैनतेयोच्चाटनौ च वशीकरणमारणे ॥ ७०॥

त्रैलोक्यमोहनो वीरः कन्दर्पबलशातनः ।

शङ्खचूडो गजाच्छायो रौद्राख्यो विष्णुविक्रमः  ॥ ७१॥

भैरवः कवहाख्यश्चावभृथोऽष्टाकपालकः ।

श्रौषट् वौषट् वषट्कारः पाकसंस्था परिश्रुती ॥ ७२॥

चयनो नरमेधश्च कारीरी रत्नदानिका ।

सौत्रामणी च भारुन्दा बार्हस्पत्यो बलङ्गमः ॥ ७३॥

प्रचेताः सर्वसत्रश्च गजमेधः करम्भकः ।

हविःसंस्था सोमसंस्था पाकसंस्था गरुत्मती ॥ ७४॥

सत्यसूर्यश्चमसः स्रुक्स्रुवोलूखलमेक्षणी ।

चपलो मन्थिनी मेढी यूपः प्राग्वंशकुञ्जिका ॥ ७५॥

रश्मिरशुश्च दोभ्यश्च वारुणोदः पविः कुथा ।

आप्तोर्यामो द्रोणकलशो मैत्रावरुण आश्विनः ॥ ७६॥

पात्नीवतश्च मन्थी च हारियोजन एव च ।

प्रतिप्रस्थानशुक्रौ च सामिधेनी समित्समा ॥ ७७॥

होताऽध्वर्युस्तथोद्घाता नेता त्वष्टा च योत्रिका ।

आग्नीध्रोऽच्छवगाष्टावग्रावस्तुत्प्रतर्दकः ॥ ७८॥

सुब्रह्मण्यो ब्राह्मणश्च मैत्रावरुणवारुणौ ।

प्रस्तोता प्रतिप्रस्थाता यजमाना ध्रुवंत्रिका ॥ ७९॥

आमिक्षामीषदाज्यं च हव्यं कव्यं चरुः पयः ।

जुहूद्धुणोभृत् ब्रह्मा त्रयी त्रेता तरश्विनी  ॥ ८०॥

पुरोडाशः पशुकर्षः प्रेक्षणी ब्रह्मयज्ञिनी ।

अग्निजिह्वा दर्भरोमा ब्रह्मशीर्षा महोदरी ॥ ८१॥

अमृतप्राशिका नारायणी नग्ना दिगम्बरा ।

ओङ्कारिणी चतुर्वेदरूपा श्रुतिरनुल्वणा ॥ ८२॥

अष्टादशभुजा रम्भा सत्या गगनचारिणी ।

भीमवक्त्रा महावक्त्रा कीर्तिराकृष्णपिङ्गला  ॥ ८३॥

कृष्णमूर्द्धा महामूर्द्धा घोरमूर्द्धा भयानना ।

घोरानना घोरजिह्वा घोररावा महाव्रता ॥ ८४॥

दीप्तास्या दीप्तनेत्रा चण्डप्रहरणा जटी ।

सुरभी सौनभी वीची छाया सन्ध्या च मांसला ॥ ८५॥

कृष्णा कृष्णाम्बरा कृष्णशार्ङ्गिणी कृष्णवल्लभा ।

त्रासिनी मोहिनी द्वेष्या मृत्युरूपा भयावहा  ॥ ८६॥

भीषणा दानवेन्द्रघ्नी कल्पकर्त्री क्षयङ्करी ।

अभया पृथिवी साध्वी केशिनी व्याधिजन्महा ॥ ८७॥

अक्षोभ्या ह्लादिनी कन्या पवित्रा रोपिणी शुभा ।

कन्यादेवी सुरादेवी भीमादेवी मदन्तिका ॥ ८८॥

शाकम्बरी महाश्वेता धूम्रा धूम्रेश्वरीश्वरी ।

वीरभद्रा महाभद्रा महादेवी महासुरी ॥ ८९॥

श्मशानवासिनी दीप्ता चितिसंस्था चितिप्रिया ।

कपालहस्ता खट्वाङ्गी खड्गिनी शूलिनी हली ॥ ९०॥

कान्तारिणी महायोगी योगमार्गा युगग्रहा ।

धूम्रकेतुर्महास्यायुर्युगानां परिवर्तिनी ॥ ९१॥

अङ्गारिण्यङ्कुशकरा घण्टावर्णा च चक्रिणी ।

वेताली ब्रह्मवेताली महावेतालिका तथा ॥ ९२॥

विद्याराज्ञी मोहराज्ञी महाराज्ञी महोदरी ।

भूतं भव्यं भविष्यं च साङ्ख्यं योगस्ततो दमः ॥ ९३॥

अध्यात्मं चाधिदैवं चाधिभूतांश एव च ।

घण्टारवा विरूपाक्षी शिखिचिच्छ्रीचयप्रिया ॥ ९४॥

खड्गशूलगदाहस्ता महिषासुरमर्दिनी ।

मातङ्गी मत्तमातङ्गी कौशिकी ब्रह्मवादिनी ॥ ९५॥

उग्रतेजा सिद्धसेना जृम्भिणी मोहिनी तथा ।

जया च विजया चैव विनता कद्रुरेव च ॥ ९६॥

धात्री विधात्री विक्रान्ता ध्वस्ता मूर्च्छा च मूर्च्छनी ।

दमनी दामिनी दम्या छेदिनी तापिनी तपी ॥ ९७॥

बन्धिनी बाधिनी बन्ध्या बोधातीता बुधप्रिया ।

हरिणी हारिणी हन्त्री धरिणी धारिणी धरा ॥ ९८॥

विसाधिनी साधिनी च सन्ध्या सङ्गोपनी प्रिया ।

रेवती कालकर्णी च सिद्धिलक्ष्मीररुन्धती ॥ ९९॥

धर्मप्रिया धर्मरतिः धर्मिष्ठा धर्मचारिणी ।

व्युष्टिः ख्यातिः सिनीवाली कुहूः ऋतुमती मृतिः ॥ १००॥

तवाष्ट्री वैरोचनी मैत्री नीरजा कैटभेश्वरी ।

भ्रमणी भ्रामणी भ्रामा भ्रमरी भ्रामरी भ्रमा ॥ १०१॥

निष्कला कलहा नीता कौलाकारा कलेबरा ।

विद्युज्जिह्वा वर्षिणी च हिरण्याक्षनिपातिनी ॥ १०२॥

जितकामा कामृगया कोला कल्पाङ्गिनी कला ।

प्रधाना तारका तारा हितात्मा हितभेदिनी ॥ १०३॥

दुरक्षरा परम्ब्रह्म महाताना महाहवा ।

वारुणी व्यरुणी वाणी वीणा वेणी विहङ्गमा ॥ १०४॥

मोदप्रिया मोदकिनी प्लवनी प्लाविनी प्लुतिः ।

अजरा लोहिता लाक्षा प्रतप्ता विश्वभोजिनी ॥ १०५॥

मनो बुद्धिरहङ्कारः क्षेत्रज्ञा क्षेत्रपालिका ।

चतुर्वेदा चतुर्भारा चतुरन्ता चरुप्रिया ॥ १०६॥

चर्विणी चोरिणी चारी चाङ्करी चर्मभेभैरवी ।

निर्लेपा निष्प्रपञ्चा च प्रशान्ता नित्यविग्रहा ॥ १०७॥

स्तव्या स्तवप्रिया व्याला गुरुराश्रितवत्सला ।

निष्कलङ्का निरालम्बा निर्द्वन्द्वा निष्परिग्रहा ॥ १०८॥

निर्गुणा निर्मला नित्या निरीहा निरघा नवा ।

निरिन्द्रिया निराभासा निर्मोहा नीतिनायिका ॥ १०९॥

निरिन्धना निष्कला च लीलाकारा निरामया ।

मुण्डा विरूपा विकृता पिङ्गलाक्षी गुणोत्तरा ॥ ११०॥

पद्मगर्भा महागर्भा विश्वगर्भा विलक्षणा ।

परमात्मा परेशानी परा पारा परन्तपा ॥ १११॥

संसारसेतुः क्रूराक्षी मूर्च्छा मत्ता मनुप्रिया ।

विस्मया दुर्जया दक्षा तनुहन्त्री दयालया ॥ ११२॥

परब्रह्माऽऽनन्दरूपा सर्वसिद्धिविधायिनी । ॐ।

एवमुड्डामरतन्त्रान्मयोद्धृत्य प्रकाशितम् ॥ ११३॥

गोपनीयं प्रयत्नेन नाख्येयं यस्य कस्यचित् ।

यदीच्छसि द्रुतं सिद्धिं ऐश्वर्यं चिरजीविताम् ॥ ११४॥

आरोग्यं नृपसम्मानं तदा नामानि कीर्तयेत् ।

नाम्नां सहस्रं वाराह्याः मया ते समुदीरितम् ॥ ११५॥

यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ।

अश्वमेधसहस्रस्य वाजपेयशतस्य च ॥ ११६॥

पुण्डरीकायुतस्यापि फलं पाठात् प्रजायते ।

पठतः सर्वभावेन सर्वाः स्युः सिद्धयः करे ॥ ११७॥

जायते महदैश्वर्यं सर्वेषां दयितो भवेत् ।

धनसारायते वह्निरगाधोऽब्धिः कणायते ॥ ११८॥

सिद्धयश्च तृणायन्ते विषमप्यमृतायते ।

हारायन्ते महासर्पाः सिंहः क्रीडामृगायते ॥ ११९॥

दासायन्ते महीपाला जगन्मित्रायतेऽखिलम् ।

तस्मान्नाम्नां सहस्रेण स्तुता सा जगदम्बिका ।

प्रयच्छत्यखिलान् कामान् देहान्ते परमां गतिम् ॥ १२०॥

॥ इति उड्डामरतन्त्रान्तर्गतं श्रीआदिवाराहीसहस्रनामस्तोत्रं सम्पूर्णम् ॥

 

2... महा वाराही अष्टोत्तर शतनामावली   (१०८ नाम)

ॐ नमो वराहवदनायै नमः ।

ॐ नमो वाराह्यै नमः ।

ॐ वररूपिण्यै नमः ।

ॐ क्रोडाननायै नमः ।

ॐ कोलमुख्यै नमः ।

ॐ जगदम्बायै नमः ।

ॐ तरुण्यै नमः ।

ॐ विश्वेश्वर्यै नमः ।

ॐ शङ्खिन्यै नमः ।

ॐ चक्रिण्यै नमः ।

ॐ खड्गशूलगदाहस्तायै नमः ।

ॐ मुसलधारिण्यै नमः ।

ॐ हलसकादि समायुक्तायै नमः ।

ॐ भक्तानामभयप्रदायै नमः ।

ॐ इष्टार्थदायिन्यै नमः ।

ॐ घोरायै नमः ।

ॐ महाघोरायै नमः ।

ॐ महामायायै नमः ।

ॐ वार्ताल्यै नमः ।

ॐ जगदीश्वर्यै नमः ।

ॐ अण्डे अण्डिन्यै नमः ।

ॐ रुण्डे रुण्डिन्यै नमः ।

ॐ जम्भे जम्भिन्यै नमः ।

ॐ मोहे मोहिन्यै नमः ।

ॐ स्तम्भे स्तम्भिन्यै नमः ।

ॐ देवेश्यै नमः ।

ॐ शत्रुनाशिन्यै नमः ।

ॐ अष्टभुजायै नमः ।

ॐ चतुर्हस्तायै नमः ।

ॐ उन्नतभैरवाङ्गस्थायै नमः ।

ॐ कपिलालोचनायै नमः ।

ॐ पञ्चम्यै नमः ।

ॐ लोकेश्यै नमः ।

ॐ नीलमणिप्रभायै नमः ।

ॐ अञ्जनाद्रिप्रतीकाशायै नमः ।

ॐ सिंहारुद्रायै नमः ।

ॐ त्रिलोचनायै नमः ।

ॐ श्यामलायै नमः ।

ॐ परमायै नमः ।

ॐ ईशान्यै नमः ॥ ४०॥

ॐ नील्यै नमः ।

ॐ इन्दीवरसन्निभायै नमः ।

ॐ कणस्थानसमोपेतायै नमः ।

ॐ कपिलायै नमः ।

ॐ कलात्मिकायै नमः ।

ॐ अम्बिकायै नमः ।

ॐ जगद्धारिण्यै नमः ।

ॐ भक्तोपद्रवनाशिन्यै नमः ।

ॐ सगुणायै नमः ।

ॐ निष्कलायै नमः ।

ॐ विद्यायै नमः ।

ॐ नित्यायै नमः ।

ॐ विश्ववशङ्कर्यै नमः ।

ॐ महारूपायै नमः ।

ॐ महेश्वर्यै नमः ।

ॐ महेन्द्रितायै नमः ।

ॐ विश्वव्यापिन्यै नमः ।

ॐ देव्यै नमः ।

ॐ पशूनामभयकारिण्यै नमः ।

ॐ कालिकायै नमः ।

ॐ भयदायै नमः ।

ॐ बलिमांसमहाप्रियायै नमः ।

ॐ जयभैरव्यै नमः ।

ॐ कृष्णाङ्गायै नमः ।

ॐ परमेश्वरवल्लभायै नमः ।

ॐ नुदायै नमः ।

ॐ स्तुत्यै नमः ।

ॐ सुरेशान्यै नमः ।

ॐ ब्रह्मादिवरदायै नमः ।

ॐ स्वरूपिण्यै नमः ।

ॐ सुरानामभयप्रदायै नमः ।

ॐ वराहदेहसम्भूतायै नमः ।

ॐ श्रोणिवारालसे नमः ।

ॐ क्रोधिन्यै नमः ।

ॐ नीलास्यायै नमः ।

ॐ शुभदायै नमः ।

ॐ शुभवारिण्यै नमः ।

ॐ शत्रूणां वाक्स्तम्भनकारिण्यै नमः । 

ॐ कटिस्तम्भनकारिण्यै नमः ।

ॐ मतिस्तम्भनकारिण्यै नमः ।

ॐ साक्षीस्तम्भनकारिण्यै नमः ।

ॐ मूकस्तम्भिन्यै नमः ।

ॐ जिह्वास्तम्भिन्यै नमः ।

ॐ दुष्टानां निग्रहकारिण्यै नमः ।

ॐ शिष्टानुग्रहकारिण्यै नमः ।

ॐ सर्वशत्रुक्षयकरायै नमः ।

ॐ शत्रुसादनकारिण्यै नमः ।

ॐ शत्रुविद्वेषणकारिण्यै नमः ।

ॐ भैरवीप्रियायै नमः ।

ॐ मन्त्रात्मिकायै नमः ।

ॐ यन्त्ररूपायै नमः ।

ॐ तन्त्ररूपिण्यै नमः ।

ॐ पीठात्मिकायै नमः ।

ॐ देवदेव्यै नमः ।

ॐ श्रेयस्कारिण्यै नमः ।

ॐ चिन्तितार्थप्रदायिन्यै नमः ।

ॐ भक्तालक्ष्मीविनाशिन्यै नमः ।

ॐ सम्पत्प्रदायै नमः ।

ॐ सौख्यकारिण्यै नमः ।

ॐ बाहुवाराह्यै नमः ।

ॐ स्वप्नवाराह्यै नमः ।

ॐ भगवत्यै नमो नमः ।

ॐ ईश्वर्यै नमः ।

ॐ सर्वाराध्यायै नमः ।

ॐ सर्वमयायै नमः ।

ॐ सर्वलोकात्मिकायै नमः ।

ॐ महिषनाशिनायै नमः ।

ॐ बृहद्वाराह्यै नमः ।

इति वाराह्यष्टोत्तरशतनामावलिः सम्पूर्णा ।

 

 

1....श्री वाराही कवचम्

2...श्री सर्व वशीकरण वाराही स्तोत्र

3... श्री किरात वाराही स्तोत्र

4...श्री वाराही निग्रहाष्टकम

5. श्री वाराही देवी के मंत्र

ॐ व्हीँ थी वाराही देव्यै नमः

ॐ महिषधवजायै विदमहे दंडनाथाय धीमहि तन्नौ वाराही देवी प्रचोदयात

 

1...  श्रीवाराही कवचम् 

श्री वाराही कवचम् विनियोगः- ॐ अस्य श्रीवाराही-कवच-मन्त्रस्य श्रीत्रिलोचन-ऋषिः, अनुष्टुप्-छन्दः, श्रीआदि-वाराही-देवता, ग्लैं वीजं, स्वाहा शक्तिः, ऐं कीलकं, अभीष्ट-सिद्धयर्थे जपे विनियोगः ।

ऋष्यादि-न्यासः- श्रीत्रिलोचन-ऋषये नमः शिरसि, अनुष्टुप्-छन्दसे नमः मुखे, श्रीआदि-वाराही-देवतायै नमः हृदि, ग्लैं वीजाय नमः गुह्ये, स्वाहा शक्तये नमः नाभौ, ऐं कीलकाय नमः पादयो, अभीष्ट-सिद्धयर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

ध्यात्वेन्द्र-नील-वर्णाभां, चन्द्र-सूर्याग्नि-लोचनां । विधि-विष्णु-सुरेन्द्रादि-मातृ-भैरव-सेविताम् । हार-नूपुर-केयूर-वलयैरुप-शोभितां । ज्वलन्मणि-गण-प्रोत-मुकुटोज्ज्वल-शोभिताम् । शस्त्राण्यस्त्राणि सर्वाणि, स्व-कार्य-करणानि च । करैः समस्तैर्विविधैर्विभ्रतीं मुशलं हलम् ।

वाराही-देवि-कवचं, भुक्ति-मुक्ति-फल-प्रदं ।

पठेत् त्रिसन्ध्यं रक्षर्थ, रोग-शत्रु-निकृन्तये ।

मेघ-श्याम-रुचि मनोहर-कुचां नेत्र-त्रयोद्भासिताम्,

कोलास्यां शशि-शेखरामचलितैः दंष्ट्रा-तलैः शोभिताम् ।

बिभ्राणां स्व-कराम्बुजै रसि-लतां चर्मासि-पाशं सृणीम्,

वाराही मनु-चिन्तये ध्रुव-वरारुढां शुभालंकृतिम् ।।

ॐ वार्ताली मे शिरः पातु, वाराही भालमुत्तमं ।

नेत्रे वराह-वदना पातु, कर्णौ तथाऽन्धिनी ।

रुन्धिनी नासिका पातु, मुखं पातु सुजम्भिनी ।

पातु मे मोहिनी जिह्वां, स्तम्भिनी कण्ठमादरात् ।

स्कन्धौ तु पञ्चमी पातु, भ्रुवौ महिष-वाहिनी ।

सिंहारूढा करौ पातु, कुक्षौ कृष्ण-मुखी सदा ।

हलायुधं च वक्षश्च, मध्येमे मुशली मम ।

नाभिं तु शङ्खिनी पातु, पृष्ठ-देशे तु चक्रिणी ।

खड्गिनी पातु कट्यां तु, मेढ्रयोः पातु खेटकी ।

गुदं च क्रोडिनी पातु, जघनं स्तम्भिनी तथा ।

चण्डोच्चण्डा च ऊरु च, जानुनी शत्रु-मर्दिनी ।

जङ्घा-द्वयोर्भद्र-काली, चामुण्डा गुल्फयोर्द्वयोः ।

पादौ तदङ्गुलीश्चैव, पातु चोन्मत्त-भैरवी ।

सर्वाङ्गं सततं पातु, काल-सन्दीपनी मम ।

वाराही-कवचं दिव्यं, सर्व-सिद्धि-प्रदायकम् ।

सर्व-शत्रु-क्षय-करं सर्व-कार्य-करं शुभम् ।

इति श्री वाराही कवचम् सम्पूर्णम् ।

 

2.... सर्वजन वशीकरण वाराही देवी स्तोत्र

विनियोगः -

ॐ अस्य श्रीसर्ववशीकरण वाराही स्तोत्र मंत्रस्य नारदऋषिः 

अनुष्टुप छन्दः श्री वश्यवाराही देवता ऐं बीजं 

क्लीं शक्तिः ग्लौं कीलकं मम सर्ववश्यार्थे 

जपे विनियोगः || 

|| स्तोत्रम || 

अश्वारूढं रक्तवर्णे स्मितसौम्य मुखाम्बुजे | 

राज्यस्त्री सर्वजन्तूनां वशीकरण नायिके || 

वशीकरण कार्यार्थं पुरादेवेन निर्मितम् | 

तस्माद्वश्य वाराही सर्वान्में वशमानय || 

यथा राजामहाज्ञानं वस्त्रं धान्यं महावसु | 

मह्यं ददाति वाराहि यथात्वं वशमानय || 

अन्तर्बहिश्च मनसि व्यापारेषु सभाषु च | 

यथा मामेव स्मरति तथा वश्यं वशं कुरु || 

चामरं दोलिकां छत्रं राजचिह्नानि यच्छति | 

अभीष्टं सम्प्रदोराज्यं यथा देवि वशं कुरु || 

मन्मथस्मरणाद्रामा रतिर्यातु मयासह | 

स्त्री रत्नेषु महत्प्रेम तथा जनय कामदे || 

मृगपक्ष्यादयाः सर्वे मां दृष्ट्वा प्रेममोहिताः | 

अनुगच्छति मामेव त्वत्प्रसादाद् दयां कुरु ||  

वशीकरण कार्यार्थ यत्र यत्र प्रयुञ्जति | 

सम्मोहनार्थ वर्द्धित्वात् तत्कार्य तत्र कर्षय || 

वशमस्तीति चैवात्र वश्यकार्येषु दृश्यते | 

तथा मां कुरु वाराही वश्यकार्य प्रदर्शय || 

वशीकरण वाणास्त्रं भक्त्यापत्ति निवारणम् |

तस्मात् वश्यं वाराही जगत्सर्वं वशं कुरु || 

वश्यस्तोत्रमिदं देव्या त्रिसन्ध्यं यः पठेन्नरः | 

अभीष्टं प्राप्नुयाद्यक्तो रमां राज्यं यथापिवः || 

|| इति अथर्वशिखायां वश्यवाराही स्तोत्रं सम्पूर्णं ||

 

3... श्री वाराही निग्रहाष्टकम्

देवि क्रोडमुखि त्वदङ्घ्रिकमलद्वन्द्वानुरक्तात्मने

मह्यं द्रुह्यति यो महेशि मनसा कायेन वाचा नरः ।

तस्याशु त्वदयोग्रनिष्ठुरहलाघातप्रभूतव्यथा-

-पर्यस्यन्मनसो भवन्तु वपुषः प्राणाः प्रयाणोन्मुखाः ॥ १ ॥

देवि त्वत्पदपद्मभक्तिविभवप्रक्षीणदुष्कर्मणि

प्रादुर्भूतनृशंसभावमलिनां वृत्तिं विधत्ते मयि ।

यो देही भुवने तदीयहृदयान्निर्गत्वरैर्लोहितैः

सद्यः पूरयसे कराब्जचषकं वाञ्छाफलैर्मामपि ॥ २ ॥

चण्डोत्तुण्डविदीर्णदुष्टहृदयप्रोद्भिन्नरक्तच्छटा

हालापानमदाट्‍टहासनिनदाटोपप्रतापोत्कटम् ।

मातर्मत्परिपन्थिनामपहृतैः प्राणैस्त्वदङ्घ्रिद्वयं

ध्यानोड्डामरवैभवोदयवशात् सन्तर्पयामि क्षणात् ॥ ३ ॥

श्यामां तामरसाननाङ्घ्रिनयनां सोमार्धचूडां जग-

-त्त्राणव्यग्रहलायुधाग्रमुसलां सन्त्रासमुद्रावतीम् ।

ये त्वां रक्तकपालिनीं हरवरारोहे वराहाननां

भावैः सन्दधते कथं क्षणमपि प्राणन्ति तेषां द्विषः ॥ ४ ॥

विश्वाधीश्वरवल्लभे विजयसे या त्वं नियन्त्रात्मिका

भूतानां पुरुषायुषावधिकरी पाकप्रदाकर्मणाम् ।

त्वां याचे भवतीं किमप्यवितथं यो मद्विरोधीजन-

-स्तस्यायुर्मम वाञ्छितावधिभवेन्मातस्तवैवाज्ञया ॥ ५ ॥

 मातः सम्यगुपासितुं जडमतिस्त्वां नैव शक्नोम्यहं

यद्यप्यन्वितदैशिकाङ्घ्रिकमलानुक्रोशपात्रस्य मे ।

जन्तुः कश्चन चिन्तयत्यकुशलं यस्तस्य तद्वैशसं

भूयाद्देवि विरोधिनो मम च ते श्रेयः पदासङ्गिनः ॥ ६ ॥

वाराही व्यथमानमानसगलत्सौख्यं तदाशाबलिं

सीदन्तं यमप्राकृताध्यवसितं प्राप्ताखिलोत्पादितम् ।

क्रन्दद्बन्धुजनैः कलङ्कितकुलं कण्ठव्रणोद्यत्कृमिं

पश्यामि प्रतिपक्षमाशु पतितं भ्रान्तं लुठन्तं मुहुः ॥ ७ ॥

वाराही त्वमशेषजन्तुषु पुनः प्राणात्मिका स्पन्दसे

शक्तिव्याप्तचराचरा खलु यतस्त्वामेतदभ्यर्थये ।

त्वत्पादाम्बुजसङ्गिनो मम सकृत्पापं चिकीर्षन्ति ये

तेषां मा कुरु शङ्करप्रियतमे देहान्तरावस्थितिम् ॥ ८ ॥

इति श्री वाराही निग्रहाष्टकम् ।

 

4… ||श्री किरात वाराही स्तोत्र ||

अस्य श्री किरातवराही स्तोत्र  मन्त्रस्य

किरातवराह ऋषिःअनुष्टुप् छन्दः

शत्रुनिवारिणी वाराही देवता

तदनुग्रहेण सर्वोपद्रवशान्त्यर्थे जपे विनियोगः-

उग्ररूपां महादेवीं शत्रुमारणतत्पराम्।

क्रूरां किरातवाराहीं वन्देऽहं कार्यसिद्धये ॥१॥

स्वापहीनां मदालस्यां तां मातां मदतामसीं।

दंष्ट्राकरालवदनां विकृतास्यां महाबलाम्॥२॥

उग्रकेशीं उग्रकरां सोमसूर्याग्निलोचनाम्।

लोचनाग्निस्फुलिङ्गाभिर्भस्मीकृतजगत्त्रयीम् ॥३॥

जगत्त्रयं क्षोभयन्तीं भक्षयन्तीं मुहुर्मुहुः।

 खड्गं च मुसलं चैव हलं शोणितपात्रकम्॥४॥

दधतीं च चतुर्हस्तां सर्वाभरण्भूषिताम्।

गुंजामालां शंखमालां नानारत्नैर्वराटकैः॥५॥

हारनूपुरकेयूरकटकैरुपशोभिताम्।

वैरिपत्निकण्ठसूत्रच्छेदिनीं क्रूररूपिणीम्॥६॥

क्रुद्धोद्धतां प्रजाहन्तृक्षुरिकेवस्थिताम् सदा।

देवतार्धोरुयुगलां रिपुसंहारताण्डवां ॥७॥

रुद्रशक्तिं सदोद्युक्तां ईश्वरीं परदेवताम्।

विभज्य कण्ठनेत्राभ्यां पिबन्तीं असृजं रिपोः॥८॥

गोकण्ठे मदशार्दूलो गजकण्ठे हरिर्यथा।

कुपितायां च वाराह्यां पतन्तीं नाशयन् रिपून् ॥९॥

सर्वे समुद्राः शुष्यन्ति कंपन्ते सर्वदेवताः।

विधिविष्णुशिवेन्द्राद्या मृत्युभीताः पलायिताः॥१०॥

एवं जगत्त्रयक्षोभकारकक्रोधसंयुताम्।

साधकस्य पुरः स्थित्वा प्रद्रवन्तीं मुहुर्मुहुः॥११॥

लेलिहानां बृहद्जिह्वां रक्तपानविनोदिनीम्।

त्वगसृङ्मांसमेदोस्थिमज्जाशुक्राणि सर्वदा॥१२॥

भक्षयन्तीं भक्तशत्रून् रिपूणां प्राणहारिणीम्

एवं विधां महादेवीं ध्यायेऽहं कार्यसिद्धये॥१३॥

शत्रुनाशनरूपाणि कर्माणि कुरु पञ्चमि।

मम शत्रून् भक्षयाशु घातयाऽसाधकान् रिपून् ॥१४॥

सर्वशत्रुविनाशार्थं त्वामेव शरणं गतः।

तस्मादवश्यं वाराहि शत्रूणां कुरु नाशनम्॥१५॥

यथा नश्यन्ति रिपवस्तथा विद्वेषणं कुरु।

यस्मिन् काले रिपून् तुभ्यं अहं वक्ष्यामि तत्त्वतः॥१६॥

मां दृष्ट्वा ये जना नित्यं विद्विषन्ति हनन्ति च।

दुष्यन्ति च निन्दन्ति वाराहि तांश्च मारय ॥१७॥

मा हन्तु ते मुसलः शत्रून् अशनेः पतनादिव।

शत्रुग्रामान् गृहान्देशान् राष्ट्रान् प्रविश सर्वशः॥१८॥

उच्चाटय च वाराहि काकवद्भ्रमयाशु तान्।

अमुकाऽमुक संज्ञानां शत्रूणां च परस्परम्॥१९॥

दारिद्र्यं मे हन हन शत्रून् संहर संहर।

उपद्रवेभ्यो मां रक्ष वाराहि भक्तवत्सले ॥२०॥

एतत्किरातवाराह्या स्तोत्रमापन्निवारणम्।

मारकः सर्वशत्रूणां सर्वाभीष्टफलप्रदम्॥२१॥

त्रिसन्ध्यं पठते यस्तु स्तोत्रोक्तफलमश्नुते ।

मुसलेनाऽथ शत्रूंश्च मारयन्तीं स्मरन्ति ये ॥२२॥

तार्क्ष्यारूढां सुवर्णाभां जपेत्तेषां न संशयः।

अचिराद्दुस्तरं साध्यं हस्तेनाऽऽकृष्य दीयते ॥२३॥  

एवं ध्यायेज्जपेद्देवीं जनवश्यमवाप्नुयात्।

दंष्ट्राधृतभुजां नित्यं प्राणवायुं प्रयच्छति॥२४॥

दूर्वाभां संस्मरेद्देवीं भूलाभं याति बुद्धिमान्।

सकलेष्टार्थदा देवी साधक स्तोत्र दुर्लभः ॥२५॥

 

5... । वाराही देवी के मंत्र ।

1..श्री वाराही मूल मंत्र -

ॐ ऐं ग्लौं ऐं नमो भगवति वार्ताळि वार्ताळि

वाराहि वाराहि  वराहमुखि वराहमुखि ऐं ग्लौं ऐं

अन्धे अन्धिनि  नमो, रुन्धे रुन्धिनि नमो,

जम्भे जम्भिनि नमो, मोहे मोहिनि नमो,

स्तंभे स्तंभिनि नमः ऐं ग्लौंं ऐं 

सर्वदुष्टप्रदुष्टानां सर्वेषां

सर्ववाक्पदचित्त चक्षुर्मुखगति जिह्वाम्

स्तंभनं कुरु कुरु शीघ्रं वश्यं कुरु कुरु ऐं ग्लौं ठः ठः ठः ठः

हुं फट् स्वाहा । 

विधि -  यह मंत्र का  इक्कीस हजार जाप से सिर्फ होता है

फिर इसके निरंतर अभ्यास से त्रिकाल ज्ञान प्राप्त होता है

देवी उसे सभी प्रश्नों का उत्तर कान में बताती है।

 

2...दुर्लभ वाराही शाबर मंत्र ।

ओंम नमो आदेश गुरू को । वाराही माता । भैसी का वाहन । हाथ में काल दंड दृष्टो पे शासन | तारे धरती माता मनभावन। वराह वाराही दंड धारे। राखे पिंड काया प्राण । वराह बली चलते साथ। मैली विद्या मैला मेल । बंधी महवारी । बंधी कोक । असर कसर । भूत चुडेल टोना टूमण तंत्र मंत्र  निवारो । राखो लाज । सत शब्द सत की शक्ती । दुहाई जगदंबे की। माई कामाख्या की । शब्द साच्या पिंड काच्या फुरो मंत्र ईश्वरी वाच्या

रात्रि काल में 21 दिन तक रोज एक माला जप करें -

मंगलवार या शनिवार से। साधना से पहले भगवान लक्ष्मीनारायण  या शिव दुर्गा कै मंदिर जाकर पूजा करे प्रसाद चढ़ाकर यह वाराही साधना के अनुमति मांगेऔर मंदिर में 21 बार मंत्र जपे। फिर घर में रात्रि में साधना करें । घी का दीपक जलाएं पीतल के दिये में।  साधना करते समय रोज थोड़े से कच्चे आलू या शकरकंद रखें,

और दूध और केले का प्रसाद रखें । दूसरे दिन सुबह आलू या शकरकंद किसी सूअर को खिला दें। दूध और केले का प्रसाद स्वयं ले और घर के लोगों को दे  इस तरह 21 दिन की साधना से यह मंत्र सिद्ध होता है।

माला रूद्राक्ष रक्तचंदन या कमलगट्टे की ले। जिससे कार्य में उपयोग किया जाता है नजर उतारना,

झाड़ा लगाने और नकारात्मक शक्तियों से रक्षा करने में सक्षम है। जल या बताशे को मंत्र से अभिमंत्रित कर खिलाने से मैली विद्या का प्रभाव दूर होता है।

3....ॐ ह्रीं  श्रीं नमो भगवती वाराही वैष्णवी सर्व तंत्रानुतंत्रम् छिन्द छिन्द भिंद भिंद सुआरोग्यम सुऐश्वर्यम सुबुद्धिम् देहि देहि परमेश्वरी चक्रधारिणीये श्रीं ह्रीं स्वाहा ।

4...ॐ व्हीं र्थीं वाराही देव्यै नमः

5... ॐ नमो भगवत्यै वाराहरूपिण्यै चतुर्दशभुवनाधिपायै वाराहियै भूपतित्वं में देही दापय स्वाहा।

6...॥ ॐ ह्रीं नमो वाराही शत्रु स्तंभय ठः ठः फट्।।

7...ओम ह्रीं नमो वाराहि अघौरे स्वप्न दर्शय दर्शय ठ: ठ: स्वाहा ll

8...ॐ वाराहमुख्यै विदमहे दण्डनाथायै धीमहि तन्नौ वाराही देवी प्रचोदयात।

9.....ॐ वाराहमुखी  विदमहे आन्त्रासनी च धीमहि तन्नौ देवी प्रचोदयात

10....ॐ महिषधवजायै विदमहे दंडनाथाय धीमहि तन्नौ वाराही देवी प्रचोदयात

जय श्री राम ॐ रां रामाय नम:  श्रीराम ज्योतिष सदन, पंडित आशु बहुगुणा, संपर्क सूत्र- 9760924411